जो भक्तजन यदि दुर्गासप्तशती का पाठ करने में असमर्थ हों तो वह इस सप्तश्लोकी दुर्गा को पढें,इन सात श्लोकों में दुर्गा सप्तशती का संपूर्ण सार समाहित है-

अथ सप्तश्लोकी दुर्गापाठम्-
शिव उवाच-
देवि त्वं भक्तसुलभे सर्वकार्यविधायिनी । कलौ कार्यसिद्ध्यर्थमुपायं ब्रूहि यत्नतः ॥
देव्युवाच-
श्रृणु देव प्रवक्ष्यामि कलौ सर्वेष्ट्साधनम् । मया तवैव स्नेहेनाप्यम्बास्तुतिः प्रकाश्यते ॥
विनियोग :
ॐ अस्य श्रीदुर्गासप्तश्लोकीस्तोत्रमन्त्रस्य नारायण ॠषिः, अनुष्टुपछन्दः, श्रीमहाकाली-महा लक्ष्मी-महासरस्वत्यो देवताः, श्री दुर्गाप्रीत्यर्थं सप्तश्लोकी दुर्गापाठे विनियोगः ।
ॐ ज्ञानिनामपि चेतांसि देवी भगवती हि सा । बलादाकृष्य मोहाय महामाया प्रयच्छति ॥ १ ॥
दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि । दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता ॥२॥
सर्वमङ्गल माङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यंम्बके गौरि नारायणि नमोस्तु ते ॥३॥
शरणागत दीनार्तपरित्राणे परायणे । सर्वस्यार्तिहरे देवि नारायणि नमोस्तु ते ॥४॥
सर्वस्वरुपे सर्वेशे सर्वशक्तिसमन्विते । भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोस्तु ते ॥५॥
रोगानशेषानपहंसि तुष्टा रुष्टा तु कामान् सकलानभीष्टान् । त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्याश्रयतां प्रयान्ति ॥ ६ ॥

- सर्वबाधाप्रशमनं त्रैलोक्यस्याखिलेश्र्वरि । एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् ॥ ७ ।।
Comments
Post a Comment